मिथुनानां म्रियते यत् तत् खलु जीवति, इतरन्मृतं भवति॥)
वैचित्र्ये रागवर्धनत्वे वा सम्भोगाद् विप्रलम्भो बलीयानिति। तत्र— वैचित्र्ये प्रथमानुरागानन्तरात् प्रथमानुरागः। स यथा—(सूमु. ४)
इन्दुर्यत्र न निन्द्यते, न मधुरं दूतीवचः श्रूयते, नालापा निपतन्ति बाष्पकलुषाः, नोपैति कार्श्यं वपुः।
स्वाधीनामनुकूलितां स्वगृहिणीमालिङ्ग्य यत् सुप्यते किं तत् प्रेम गृहाश्रमव्रतमिदं कष्टं समाचर्यते॥ ५५॥
रागवर्धनत्वे स यथा—(कुसं. ६.९५)
पशुपतिरपि तान्यहानि कृच्छ्रादगमयदद्रिसुतासमागमोत्कः।
कमपरमवशं न विप्रकुयुर्विभुमपि तं यदमी स्पृशन्ति भावाः॥ ५६॥
वैचित्र्ये मानानन्तरमानः ; स यथा—(गास. ८२९वे., वज्जा. ३३३)
जत्थ ण उज्जागरओ जत्थ ण ईसा विसूरणं माणं।