प्रवासान्मानः स यथा—(अमरु. ९७)
भ्रुभेदोऽरुणितश्चिरं नयनयोरत्यन्तमीलनं रोद्धुं शिक्षितमादरेण हसितं मौनेऽभियोगः कृतः।
धैर्यँ धर्तुमपि स्थिरीकृतमिदं चेतः कथञ्चिन्मया बद्धो मानपरिग्रहे परिकरः, सिद्धिस्तु दैवे स्थिता॥ ५०॥
मानात् प्रथमानुरागः स यथा—
क्वाकृत्यं? शशलक्ष्मणः क्व च कुलं ? भूयोऽपि दृश्येत सा रो(दो)षाणामुपशान्तये श्रुतमहो कोपोऽपि कान्तं मुखम्।
किं वक्ष्यन्त्यपकल्मषाः कृतधियो रेखैव साऽन्यादृशी चेतः! स्वास्थ्यमुपैहि, कः खलु युवा धन्योऽधरं पास्यति?॥ ५१॥
रागवर्धनत्वेन प्रथमानुरागान्मानः; स यथा—(गास. १.१९)
दूमेंति जे मुहुत्तं कुविअं दास व्व जे पसाअंति।
ते च्चिअ महिलाण पिआ सेसा सामि च्चिअ वराआ॥ ५२॥
(दूनयन्ति ये मुहुर्त्तँ कुपितं दासा इव ये प्रसादयन्ति।