आसि म्ह तं मुहुत्तं विणिअंसण—दंसणं तिस्सा/तीए॥ ५४॥
(आश्चर्यमिव निधिरिव स्वर्गो राज्यमिव अमृतपानमिव।
आसीन्मम तन्मुहूर्तं विनिवसनदर्शनं तस्याः॥)
अविहाविअक्खरवआ चिरेण अणुबंधपुच्छिअपलत्ता।
णववहुपढमुल्लावा वरस्स हिअए ण माएंति॥ ५५॥
{अविभाविताक्षरवचसः/पदाः चिरेण अनुबन्धपृष्टप्रलपिताः/प्रवृत्ताः।
नववधूप्रथमोल्लापा वरस्य हृदये न मान्ति॥}
४९. दाक्षिण्यं यथा—(गास. २.२२)
णववहुपेंमतणुइओ पणअं पढमब/घरिणीएॅ रक्खन्तो।