भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 231 to 240 of 515 verses
(सक. ३.१०८)

प्रवासानन्तराद् मानानन्तरः; स यथा—(सक. ५. २८५)

न स्पृष्टोऽपि त्रिदशसरिता दूरमीर्ष्यानुबन्धा— न्नाप्युन्मृष्टो भुजगपतिना तर्जनाभिर्जयायाः।

मानस्यान्ते नयनसलिलैः क्षालितः शैलपुञ्याः पत्युर्मौलौ नतिजुषि जयत्यात्मनः पादपांसुः॥ ४४॥

मानानन्तरात् प्रथमानुरागानन्तरः; स यथा—(नागा. ३.४)

दृष्टा दृष्टिमधो दधाति, कुरुते नालापमाभाषिता शय्यायां परिवृत्य तिष्ठति, बलादालिङ्गिता वेपते।

निर्यान्तीषु सखीषु वासभवनान्निर्गन्तुमेवेहते जाता वामतयैव सम्प्रति मम प्रीत्यै नवोढा प्रिया॥ ४५।।

परः परो रागवर्धन' इति प्रथमानुरागानन्तरान्मानानन्तरः; स यथा—

उन्नमय्य सकचग्रहमास्यं चुम्बति प्रियतमे हठवृत्त्या।

हुं हु मुञ्च मममेति च मन्दं जल्पितं जयति मानवतीनाम्॥ ४६॥

Showing 231 to 240 of 515 verses