श्रेयांसि वो दिशतु निर्हृतकोपचिह्नमालिङ्गनोत्पुलकमासितमिन्दुमौलेः॥ ३८॥
३. प्रवासो यथा—(अमरु. ९९)
देशैरन्तरिता शतैश्च सरितामुर्वीभृतां काननै—
र्यत्नेनापि न याति लोचनपथं कान्तेति जानन्नपि।
उद्ग्रीवश्चरणार्धरुद्धवसुधः कृत्वाऽश्रुपूर्णे दृशौ
तामाशां पथिकस्तथाऽपि किमपि ध्यायन् मुहुर्वीक्षते॥ ३९॥
३.१. प्रवासानन्तरो यथा—(सूमु. ४)
आयाते दयिते मरुस्थलेभुवां सञ्चिन्त्य दुर्लङ्घतां गेहिन्या परितोषबाष्पतरलामासज्य दृष्टिं मुखे।
दत्त्वा पीलुशमीकरीरकबलान् स्वेनाञ्चलेनादरा— दुन्मृष्टं करभास्यकेसरसटाभाराग्रलग्नं रजः॥ ४०॥
१. चतुर्विँशः प्रकाशः द्र. पृ. ११५८