(जानामि जनो निपुणो गुरुजनमध्ये संस्थिता चाहम्।
तत् किं करोमि प्रियसखि! धृताऽपि बलाद् वलते दृष्टिः॥)
३९. अध्यवसायो यथा—(मामा. ४.४)
समानप्रेमाणं जनमसुलभं प्रार्थितवतो विधौ वामारम्भे मम समुचितैषा परिणतिः।
तथाऽप्येवं निन्दाश्रवणसमयेऽस्याः प्रविगलत्— प्रभं प्रातश्चन्द्रद्युति वदनमन्तर्दहति माम्॥ ४६॥
४०. व्यवसायो यथा—(गास. ३.३१)
तस्स/तुज्झ अ सोहग्गगुणं अमहिलसरिसं च साहसं मज्झ।
जाणइ गोलाऊरो वासारत्तद्धरत्तो अ॥ ४७॥
{तस्य(तव) च सौभाग्यगुणम् अमहिलासदृशं च साहसं मम।
जानाति गोदापूरो वर्षारात्रार्धरात्रञ्च॥}