मा भैष्टेति निरुन्धतः कपिभटानस्योद्भटभ्रूस्थिते— र्मर्मच्छेदविसंस्थुलाक्षरजडा वाचस्त्वया न श्रुताः॥ ४८॥
धीरोद्धतो यथा—(वेसं. ५.३३)
शोकं स्रीवन्नयनसलिलैर्यत् परित्याजितोऽसि भ्रातुर्वक्षःस्थलविघटने यच्च साक्षीकृतोऽसि।
आसीदेतत् तव कुरुपते/कुनृपते ? कारणं जीवितस्य क्रुद्धे युष्मत्कुलकमलिनीकुञ्जरे भीमसेने॥ ४९॥
धीरललितो यथा—(मामा. १.३४)
या कौमुदी नयनयोर्भवतः सुजन्मा तस्या भवानपि मनोरथबन्धबन्धुः।
तत्सङ्गमं प्रति सखे! नहि संशयोऽस्ति यस्मिन् विधिश्च मदनश्च कृताभियोगः॥ ५०॥
धीरप्रशान्तो यथा—(काव्यादर्शे २.२७६)
अद्य या मम गोविन्द! जाता त्वयि गृहागते।
कालेनैषा भवेत् प्रीतिस्तवैवागमनात् पुनः॥ ५१॥