ओष्ठेन रामो रामोष्ठबिम्बचुम्बनचुञ्चुना॥ ४५॥
जगाद वदनच्छद्मपद्मपर्यन्तपातिनः।
नयन् मधुलिहः श्वैत्यमुदंशुदशनांशुभिः॥ ४६॥
सम्प्रत्येव हि गोग्रहे यदभवत् तत् तावदाकर्ण्यताम्॰॥ ४७॥
नायकात् किञ्चिदूनः कथाशरीरे विशेषोपयोगवान् अनुनायकः। तत्र— धीरोदात्तो यथा—(उरा. ६.१३)
शक्त्या वक्षसि मग्नया सह मया मूढे प्लवङ्गाधिपे विद्राणेषु च विद्रवत्सु कपिषु प्राप्तावकाशे द्विषि।