रामः स एष नृपकण्ठकठोरधारः कुण्ठो मुनेरपि हि येन कृतः कुठारः॥ ३९॥
धीरोद्धतो यथा—(किराता. १४.२२)
वयं क्व वर्णाश्रमरक्षिणो नृपाः क्व जातिहीना मृगजीवितच्छिदः।
सहाव/पकृष्टैर्महतामसंगतं भवन्ति गोमायुसखा न दन्तिनः॥ ४०॥
धीरललितो यथा—(शाकु. ३.१८)
किं शीतलैः क्लमविनोदिभिरार्द्रवातैः सञ्चालयामि नलिनीदलतालवृन्तैः।
अङ्के निधाय करभोरु ! यथासुखं ते संवाहयामि चरणावुत पद्मताम्रौ॥ ४१॥
अस्मान् नो नृवरान् वेत्थ वेत्थार्थान् वेत्थ भाषितुम्।
यद्यदस्मद्धितं कृष्ण ! तत्तद् वाच्यः सुयोधनः॥ ४२॥