सोऽयं धर्मशृङ्गाराद्यधिकारभेदान्नायकप्रभेदश्चतुर्धा—
धीरोदात्तः, धीरोद्धतः, धीरललितः, धीरप्रशान्तश्चेति।
अथैष प्रत्येकमपि चतुर्धा भिद्यते—
नायकः, उपनायकः, अनुनायकः, प्रतिनायक इति।
तत् त्रिधा (तत्र कथा ?)शरीरव्यापी यथोक्तगुणयुक्तो नायकः। स—
इक्ष्वाकुवंशतिलकः प्रथितः पृथिव्यामव्याहतप्रसरपौरुषदुर्निवारः।