इदानीमस्माकं पटुतरविवेकाञ्जनजुषां समीभूता दृष्टिस्त्रिभुवनमपि ब्रह्म मनुते॥ ३१॥
५. मलप्रमोषः शौचम् ; यथा—(कुसं. ६.५)
आप्लुतास्तीरमन्दारकुसुमोत्करवीचिषु ।
आकाशगङ्गास्रोतस्सु दिङ्नागमदगन्धिषु॥ ३२॥
६. अमायावित्वमार्जवम् ; यथा—
अन्यद् वाचि मनस्यन्यत् कर्मण्यन्यद् दुरात्मनाम्।
महात्मनां तु यद् वाचि तन्मनःकर्मणोरपि॥ ३३॥
७. विचारपरता वैशारद्यम् ; यथा—
उच्छ्वासावधयः प्राणाः स चोच्छ्वासः समीरणः।
समीरणाच्चलं नास्ति यज्जीवति तदद्भुतम्॥ ३४॥