सव्वस्संमि वि दड्ढे तह वि हु हिअअस्स णिव्वुदि च्चेअ।
जं तीए गामडाहे हत्थाहत्थी कुडो गहिओ॥ ३१॥
{सर्वस्वेऽपि दग्धे तथाऽपि खलु हृदयस्य निर्वृत्तिरेव।
यत् तया ग्रामदाहे हस्ताहस्ति (कया) कुण्डो गृहीतः॥ }
१. प्रसिद्धस्तु पाठः 'न गायनाः, न परद्रोहनिबद्धबुद्धयः। नृपसद्मनि नाम के वय'—मिति।
तस्य प्रसह्य हृदयं किल शोकशङ्कुः प्लक्षप्ररोह इव सौधतलं बिभेद।
प्राणान्तहेतुमपि तं भिषजामसाध्यं लाभं प्रियानुगमनत्वरया स मेने॥ ३२॥
१२. सुदुर्लभेष्ववमानो यथा—(रघु. १९.२१)
प्रातरेत्य परिभोगशोभिना दर्शनेन कृतखण्डनव्यथाः।