जहातु नैनं कथमर्थसिद्धिः संशय्य कर्णादिषु तिष्ठते यः।
असाधुयोगा हि जयान्तरायाः प्रमाथिनीनां विपदां पदानि॥ ३२॥
न सूरयो न स्थविरा न धीराः, पुरः स्थिताः प्राश्निकतां प्रयान्ति।
स२ तिष्ठते संसदि संशयानः पृष्ठोपविष्टासु विलासिनीषु॥ ३३॥
१. उत्तरार्धन्त्वस्माभिर्निर्मितम्। २. सन्तिष्ठत इति यावत्।
१०. परगुणेषु मात्सर्यं यथा—(उराच. ५.३२)
सिद्धं ह्येतद् वाचि वीर्यं द्विजानां बाह्वोर्वीर्यं यत्तु तत् क्षत्रियाणाम्।
शस्त्रग्राही ब्राह्मणो जामदग्न्य— स्तस्मिन् दान्ते का स्तुतिस्तस्य राज्ञः॥ ३४॥