राज्ञां च सवनस्थानां ब्रह्महत्यासमो वधः॥ ३८॥
त्वं ब्रह्मवर्चसधनो यदि वर्तमाने यद्वा स्वजातिसमयेन धनुर्धरस्य।
उग्रेण भोस्तव तपस्तपसा दहामि पक्वान्तरस्य सदृशः परशुः करोति॥ ३९॥
१३. अस्थानेषु क्रोधो यथा—(वेसं. ३.४४)
यो यः शस्त्रं बिभर्ति स्वभुजगुरुमदः पाण्डवीनां चमूनां यो यः पाञ्चालगोत्रे शिशुरधिकवया गर्भशय्यां गतो वा।
यो यस्तत्कर्मसाक्षी चरति मयि रणे, यश्च यश्च प्रतीपः क्रोधान्धस्तस्य तस्य स्वयमपि जगतामन्तकस्यान्तकोऽहम्॥ ४०॥
लाक्षागृहानलविषान्नसभाप्रवेशैः प्राणेषु वित्तनिचयेषु च नः प्रहृत्य।
आकृष्टपाण्डववधूपरिधानकेशाः स्वस्था भवन्तु मयि जीवति धार्तराष्ट्राः॥ ४१॥