क्व तावानानन्दो निरतिशयविस्रम्भबहुलः क्व तेऽन्योन्यं यत्र क्वचन गहनाः कौतुकरसाः।
१. आलम्बनविभावप्रकाशे द्र. पृ. ८६१। सुखे वा दुःखे वा क्व नु खलु तदैक्यं हृदययो— स्तथाऽप्येष प्राणः, स्फुरति; न तु पापो विरमति॥ ४३॥
३. व्यसनादिभिर्न दीनत्वं ; यथा—(नीति. ८९)
विपदि महतां धैर्यध्वंसं यदीक्षितुमीहसे विरम विरमायासादस्माद् दुरध्यवसायतः।
अयि हतविधे! कल्पापायेऽप्यपेतनिजक्रमाः कुलशिखरिणः क्षुद्रा नैते नवा जलराशयः॥ ४४॥
असावनागतः श्रेयानागच्छन् वत्स! वार्यताम्।
प्रवेशयन्ति सुहृदं न धीराः स्वार्थसंङ्कटे॥ ४५॥
४. रागादिभिर्न धर्मबाधा ; यथा—
पितुः शासनमत्येतुं न शशाक स राघवः।