यो रावणशिरश्छेदकार्येऽभवदविक्लबः॥ ४६॥
कैकेय्या मम विप्रियं विहितमित्येतत् कुतस्ते हृदि स्नेहार्दं च मनो मयीव भरतेऽप्यस्त्येव किं प्रार्थ्यसे।
श्रुत्वाऽस्मानपि कानने निवसतः शोकेन पर्याकुला ताताज्ञां प्रति मा कृथाः शिथिलतामेतद् भुवि ज्ञाप्यसे॥ ४७॥
५. चरितेषु उत्तमस्पर्धा ; यथा—(उरा. ६.३)
प्रागेवार्यविचिन्तिनात् सुकृतिना बद्धास्तथाऽग्रे जटाः तच्छेषैः फलमूलकन्दशकलैः श्लाघ्या स्थितिः कल्पिता।
निर्व्याजं रणदुर्मदेन च गुरुः प्राणैः समाराधितो भ्रातृत्वेन किमन्यथा मम यथा सौमित्रिणा नाप्यते/वाप्यते॥ ४८॥
पाद/पापस्तवाम्ब! निजजीवविसर्जनाय विज्ञापयाम्यशरणः शरणागतस्त्वाम्।
मातस्थता कुरु यथाऽन्य/द्यभवान्तरेऽपि सौमित्रिणा मम करोति जनस्समत्वम्॥ ४९॥