१४. प्रारब्धेष्वनिर्वाहो यथा—(बारा. ३.३०)
दोर्दण्डचरितोच्चण्डो हरचिन्ताचमत्कृतः।
कार्मुकारोपणायैष समुत्थाय पुनः स्थितः॥ ४२॥
रभसादयमादाय कोदण्डं मदनद्विषः।
व्रीडामयोऽपि योऽस्त्रं वो वन्दिता पुनरुज्झति॥ ४३॥
१५. कर्मातिशयैर्विस्मयो यथा—(सेब. २.४३)
पेच्छंताण समुद्दं चडुलो वि अउव्वविम्हअरसत्थिमिओ।
हणुमंतंमि णिवडिओ सगोरवं वाणराणँ लोअणणिवहो॥ ४४॥
(प्रेक्षमाणानां समुद्रं चटुलेऽपि अपूर्वविस्मयरसस्तिमितः।