१. जात्यभिमानो यथा—(किराता. १४.२२)
वयं क्व वर्णाश्रमरक्षणोचिताः? क्व जातिहीना मृगजीवितच्छिदः?।
सहापकृष्टैर्महतामसङ्गतं भवन्ति गोमायुसखा न दन्तिनः॥ ४६॥
२. अन्वयाभिमानो यथा—(मवीच. ३.११)
ब्रह्मैकतानमनसोऽपि वसिष्ठमुख्यास्त्वं ब्रूहि वीरचरितेषु गुरुः पुराणः।
वंशे विशुद्धिमति येन भृगोर्जनित्वा शस्त्रं गृहीतमथ तस्य यदत्र युक्तम्॥ ४७॥
३. अभिजनाभिमानो यथा—(बारा. १.३)
अहमेष हरिष्यामि परिणेतुः पुरेऽपि ताम्।
नारीपरिभवं सोढुं दाक्षिणात्या न शिक्षिताः॥ ४८॥
४. निवासाभिमानो यथा—(रघु. ५.६०)