स्वयंवृतः पतिर्द्वाभ्यामूर्वश्या च भुवा च यः॥ ५२॥
पच्चक्खा हि परोक्खं कहवि तुग्ग(ज्झ)/तुलग्गघडिआहि आगमसुद्धं।
संचालिअणिक्कप्पं अणुहूआहि वि महं सुअं मिपि तुलाग्रचअ गरुअं॥ ५३॥
(प्रत्यक्षत्द्धिं परोक्षं कथं वा तव घटिताद्धि आगमशुद्धम्।
सञ्चालिता निष्कम्पमनुभूताद्धि अपि मम श्रुतमेव गुरुकम्॥)
९. वाग्ग्मिताभिमानो यथा—(किराता. १४.३)
विविक्तवर्णाऽभरणा सुखश्रुतिः प्रसादयन्ती हृदयान्यपि द्विषाम्।
प्रवर्तते नाऽकृतपुण्यकर्मणां प्रसन्नगम्भीरपदा सरस्वती॥ ५४॥
१०. कलावैदग्ध्याभिमानो यथा—(कुसं. ३.१०)