एकस्मिञ् शयने मया मयसुतामालिङ्ग्य निद्रालसा— मुन्निदं शयितेन मच्चरणयोः संवाहनव्यापृताम्/ता।
पादाग्रेण तिलोत्तमा स्तनतटे सस्नेहमापीडिता हर्षावेगसमर्पितानि पुलकान्यद्यापि नो मुञ्चति॥ ५८॥
केत्तिअमेत्त व्व धरा, मह बलिणो तुंत्थ/तुज्झ? पत्थमाणस्स/मग्गमाणस्स।
अप्पा ण केवलं चिअ अहं वि लहुईकओ कण्ह!॥ ५९॥
{कियन्मात्रेव धरा महाबलिनः(तः) तव प्रार्थयमानस्य (मृग्यमाणस्य)।
आत्मा न केवलमेव अहमपि लघुकीकृतः कृष्ण!॥}
१५. शौर्याभिमानो यथा—(मामा. ५.३२)
धैर्यं निधेहि हृदये हत एष पापः किं वा कदाचिदपि केनचिदन्वभावि।