सहचरमधुहस्तन्यस्तचूताङ्कुरास्त्रः शतमखमुपतस्थे प्राञ्जलिः पुष्पधन्वा॥ ५७॥
ककुदे वृषस्य कृतबाहुमकृशपरिणाहशालिनि।
स्पर्शसुखमनुभवन्तमुमाकुचयुग्मण्डल इवार्द्रचन्दने॥ ५८॥
१. लौकिकी स्वरभक्तिरियं हर्षपदे यथा 'त्रियम्बकं संयमिनं ददर्शे'—ति कुसं. ३.४४।
७. सर्वावस्थास्वनुग्रता माधुर्यं; यथा—(किराता. १.२१)
न तेन सज्यं क्वचिदुद्धृतं धनुः कृतं न वा कोपविजिह्ममाननम्।
गुणानुरागेण शिरोभिरुह्यते नराधिपैर्माल्यमिवास्य शासनम्॥ ५९॥
यो हि दिर्घासिताक्षस्य विलासललित/वलितभ्रुवः/णः।