श्लोकोऽयं १हरिषाभिधानकविना देवस्य तस्याग्रतो यावद्यावदुदीरितः शकवधूवैधव्यदीक्षागुरोः।
तावत्तावदुपोढसान्द्रपुलकोद्भेदः स तस्मै ददौ लक्षं लक्षमखण्डितं मदजलप्रक्लिन्नगण्डं गजम्॥ ५४॥
५. मनोज्ञभाषिता प्रियंवदत्वम्; यथा—(मामा. ४.१)
यद्व्यालप्रहितसुहृत्प्रमोहदग्धं सौजन्याद् विहितवती गतव्यथं माम्।
तत्कामं प्रभवति पूर्णपात्रवृत्त्या स्वीकर्तुं मम हृदयं च जीवितं च॥ ५५॥
किं शीतलैः क्लमविनोदिभिरार्द्रवातं सञ्चालयामि नलिनीदलतालवृन्तैः।
अङ्के निधाय करभोरु! यथासुख ते संवाहयामि चरणावुत पद्मताम्रौ॥ ५६॥
६. अबुद्धिकृता शृङ्गाराकारचेष्टा लालित्यम्; यथा—(कुसं. २.६४)
अथ स ललितयोषिद्भ्रूलताचापशृङ्गं रतिवलयपदाङ्के चापमासज्य कण्ठे।