तव प्रसादात् कुसुमायुधोऽपि सहायमेकं मधुमेव लब्ध्वा।
कुर्यां हरस्यापि पिनाकपाणेर्धैर्यच्युतिं, के मम धन्विनोऽन्ये?॥ ५५॥
११. चतुरताभिमानो यथा—(हरिविजये)
बहुमण्णसि हरिप्पणअं संदाणेसि तिअसेस पाअअवअणं।
ओजह मुद्धसभावं संभावेसु सुरणाह! जाअवलोअं॥ ५६॥
(बहुमन्यसे हरिप्रणयं सन्दानयसि त्रिदशेशपादपरत्नम्।
अपजहिहि मुग्धस्वभावं सम्भावय सुरनाथ! यादवलोकम्॥)
१२. रूपसंपदभिमानो यथा—(राच. ११.८७/८८)
म्लानाकृती मलिनचीरधरौ नरौ तौ नीराजनार्थमिव यस्य कृतौ/मे विहितौ विधात्रा।
देवद्रुमस्तबकबद्धजयावतंस— स्त्वां देवरो नमतु मैथिलि! कुम्भकर्णः॥ ५७॥