सारङ्गसङ्गरविधाविभकुम्भकूटकुट्टाकपाणिकुलिशस्य हरेः प्रमादः॥ ६०॥
१६. अदीनवाक्यताभिमानो यथा—(वेसं. ५.३)
मातः! किमप्यसदृशं विकृतं वचस्ते सुक्षत्रिया क्व भवती? क्व च दीनतैषा?।
निर्वत्सले! सुतशतस्य विपत्तिमेतां त्वं नानुचिन्तयसि रक्षसि मामयोग्यम्॥ ६१॥
१७. शक्त्यभिमानो यथा—(बारा. १.४४)
सार्धं हरेण हरवल्लभया च देव्या हेरम्बषणमुखवृषप्रमथावकीर्णम्।
कैलासमुद्धतवतो दशकन्धरस्य केयं जरद्धनुषि दुर्दम/दुर्मद—दोःपरीक्षा॥ ६२॥
१८. दक्षताभिमानो यथा—(बाभा. १.८३)
कस्य द्रोणो धनुषि न गुरुः स्वस्ति देवव्रताय च्छन्नाभ्यासः कुरुपतिरयं श्रीसमुत्थैर्विलासैः।
भोः कर्णाद्याः! श्रृणुत तदिमां ब्राह्मणस्यास्य वाणीं राधायन्त्रं रचयत पुनर्विद्धमप्यस्त्वविद्धम्॥ ६३॥