स पिशङ्गजटावलिः किरन्नुरुतेजाः परमेण मन्युना।
ज्वलितौषधिजातवेदसा हिमशैलेन समं विदिद्युते॥ ६७॥
३. गर्वप्रकर्षः शौण्डीर्यम्; यथा—(राच. १९.८७–८८)
चक्रं वा मधुहा कृतान्तगृहिणीदत्ताश्रपञ्चाङ्गुलं वज्रं भूधरपक्षशोणितसुरापानोन्मदं वा वृषा।
शूलं वाऽन्धकरक्तबिन्दुनिचितं गृह्णातु शूलायुधो धृष्टद्युम्नमहं निहन्मि समरे, कश्चित् परित्रायताम्॥ ६८॥
तपो वा शस्त्रं वा व्यपदिशति यः कश्चिदिह वः स दर्पाद् दुर्नामं द्विषमसहमानः स्खलयतु।
अरामां निस्सीरध्वजदशरथीकृत्य वसुधा— मतृप्तस्तत्कुल्यानपि परशुरामः शमयति॥ ६९॥
४. गर्वजनिता दृष्ट्यादिचेष्टा विलासः ; यथा—(उराच. ६.१९)