दृष्टिस्तृणीकृतजगत्त्रयसत्त्वसारा धीरोद्धता नमयतीव गतिर्धरित्रीम्।
कौमारकेऽपि गिरिवद् गुरुतां दधानो वीरो रसः किमयमेत्युत दर्प एव॥ ७०॥
क्षुद्राः! सन्त्रासमेनं विजहित हरयो भिन्नशक्रेभकुम्भा युष्मद्देहेषु लज्जां दधति परममी सायकाः संपतन्तः।
सौमित्रे! तिष्ठ, पात्रं त्वमसि नहि रुषां, नन्वहं मेघनादः किञ्चित्संरम्भलीलानियमितजलधिं राममन्वेषयामि॥ ७१॥
५. स्वगुणश्लाघा विकत्थना ; यथा—(वेसं. ३.३३)
देशः सोऽयमरातिशोणितजलैर्यस्मिन् ह्रदाः पूरिताः क्षत्त्रादेव तथाविधः परिभवस्तातस्य केशग्रहात्।
तान्येवाहितशस्त्रघस्मरगुण्यस्त्राणि भास्वन्ति मे यद् रामेण कृतं तदेव कुरुते द्रौणायनः क्रोधनः॥ ७२॥
सकलरिपुजायाशा यत्र बद्धा सुतैस्ते तृणमिव परिभूतो यस्य गर्वेण लोकः।