४. इङ्गिताकारगुप्तिः गाम्भीर्यम्; यथा—(रघु. १२.९ समानार्थम्)
आहूतस्याभिषेकाय विसृष्टस्य वनाय च।
न मया लक्षितस्तस्य स्वल्पोऽप्याकारविभ्रमः॥ ७८॥
तस्य संवृतमन्त्रस्य गूढाकारेङ्गितस्य च।
फलानुमेयाः प्रारम्भाः संस्काराः प्राक्तना इव॥ ७९॥
५. प्रयोगनिस्साध्वसता प्रागल्भ्यम् ; यथा—(रघु. ३.५१)
अथापहस्याह पुनः पुरन्दरं व्यपेतभीर्भूमिपुरन्दरात्मजः।
गृहाण शस्त्रं यदि सर्ग एष ते न खल्वनिर्जित्य रघुं कृती भवान्॥ ८०॥