(धैर्योदात्तत्वहेतवो विशेषगुणाः —८)
धैर्योदात्तत्वहेतवो विशेषगुणाः — शीलं, दाक्षिण्यं, स्थैर्यं, गाम्भीर्यं, प्रागल्भ्यम्, शोभा, कृतज्ञता, अविकत्थनता इति। तेषु
१. सुस्वभावता शीलम्; यथा—(रघु. १.२३)
अनाकृष्टस्य विषयैर्विद्यानां पारदृश्वनः।
तस्य धर्मरतेरासीद् वृ(द्धत्वं जर)सा विना॥ ७२॥
विक्रमाभरणां कीर्तिं विनयाभरणां श्रियम्।
बभार शीलाभरणो यः सत्याभरणां गिरम्॥ ७३॥
२. दाक्षिण्यम् ; यथा (वा)—(मवीच.५.३४)
प्रार्थ्य माल्यवता वाली युष्मद्घाते नियोक्ष्यते।