धैर्योद्धत्यहेतवश्चास्याष्टौ विशेषगुणाः — मानः, तेजः, शौण्डीर्यं, विलासः, विकत्थना, अस्थिरत्वम्, अगम्भीरता, साहसमिति। तत्र—
१. परिभवासहिष्णुत्वं मानः; यथा—(हनुमन्नाटके १४.६)
धिग्धिक्छक्रजितं, प्रबोधितवता किं कुम्भकर्णेन वा? स्वर्गग्रामटिकाविलुण्ठनवृथोच्छूनैः किमेभिर्भुजैः?।
न्यक्कारो ह्ययमेव मे यदरयस्तत्राप्यसौ तापसः सोऽप्यत्रैव निहन्ति राक्षसभटान्; जीवत्यहो रावणः॥ ६४॥
व्यसनं तात! सा लक्ष्मीर्वर्जनीयैव सा नृभिः।
प्राप्यते विषमं कृत्वा या दैन्यध्वजमञ्जलिम्॥ ६५॥
२. अधिक्षेपादनल्पोद्गारविशेषस्तेजः ; यथा—(किराता. १५.४६)
विफलीकृतयत्नस्य क्षतबाणस्य शम्भुना।
गाण्डीवधनुषः खेभ्यो निश्चचार हुताशनः॥ ६६॥