भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 261 to 270 of 565 verses
इयं गेहे लक्ष्मीरियममृतवर्तिर्नयनयो— रसावस्याः स्पर्शो वपुषि बहुलश्चन्दनरसः।

अयं बाहुः कण्ठे शिशिरमसृणो मौक्तिकसरः किमस्या न प्रेयो यदिपरमसह्यस्तु विरहः॥ ६३॥

मध्यमस्य यथा—(मामा. ५.७)

प्रेमार्द्राः प्रणयस्पृशः परिचयादुद्गाढरागोदया— स्तास्ता मुग्धदृशो निसर्गमधुराश्चेष्टा भवेयुर्मयि।

यास्वन्तःकरणस्य बाह्यकरणव्यापाररोधी क्षणा— दाशंसापरिकल्पितास्वपि भवत्यानन्दसान्द्रो लयः॥ ६४॥

१. पङ्क्तिद्वयमिदं त्रुटितभूयिष्ठहस्तलेखमिति राघवः HOS. मूलं जोशेरक्लृप्‍तम्।

२. उत्तमस्य प्रीतिर्यथा—

ते केचिन्निजकान्तिसुन्दरतया चेतश्चमत्कारिणो दृश्‍यन्ते परमोत्सवं नयनयोः सम्पादयन्तो जनाः।

अन्तर्ये मनसः प्रविश्‍य मनसा तैस्तैः स्वकीयैर्गुणैः (स्मृत्यारूढवपुर्भिरेव जनयन्त्याह्लादनामुत्कटाम्)॥ ६५॥१

मध्यमस्य यथा—

Showing 261 to 270 of 565 verses