नाधन्यैः क्षणदाविराममधुराः किञ्चिद्विनिद्रालस— श्रोत्रैः सव्रणमुग्धचारणवधूदन्तच्छदायासिनः।
श्रूयन्ते मृदुपीतवक्त्रमरुतः पौरालिरीतिक्रम— व्यालोलाङ्गुलिरुद्धमुक्तसुषिरश्रेणीरवा वेणवः॥ ६६॥
कालक्रमं प्रत्यकथैव तावत् (खण्डितम्)।
हि ॰ ॰ ॰ ॰ विघ्न ॰ ॰ ॰ एव॥ ६७॥
सम्भूयेव सुखानि चेतसि परं भूमानमातन्वते यत्रालोकपथावतारिणि रतिं प्रस्तैति नेत्रोत्सवः।
यद् बालेन्दुकलोच्चयादविचलैः सारैरिवोत्पादितं तत् पश्येयमनङ्गमङ्गलगृहं भूयोऽपि तस्या मुखम्॥ ६८॥
४. उत्तमस्य चिन्ता यथा—(गास. २.८३)
खणमेत्तं पि ण फिट्टइ अणुदिअह—विदिण्णगरुअ—संतावा।