यदेतद् धन्यानामुरसि रमणीसङ्गसमये समुद्भूतं किञ्चित् पुलकमिदमाहुः किल जनाः।
मतिस्त्वेषाऽस्माकं कुचयुगतटीचुम्बकशिला— निवेशादाकृष्टस्मरशरशलाकोत्कर इति॥ ७२॥
तथा गृहीतस्तन्वङ्गया विजयोपार्जितः पणः।
यथा धन्याधरोष्ठेन हारितेऽपि जितं मया॥ ७३॥
मध्यमस्य यथा—(मामा. ९.४८)
आनन्दमिश्रमदनज्वरदीपनानि गाढानुरागरसवन्ति तदा तदा च।
स्नेहाङ्कनानि मम मुग्धदृशस्तु कण्ठे कष्टं स्मरामि तव तानि गतागतानि॥ ७४॥
७. उत्तमस्य वितर्को यथा—(शाकु. २.१०)