भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 301 to 310 of 565 verses
चित्रे निवेश्‍य परिकल्पितसत्त्वयोगा रूपोच्चयेन विधिना मनसा कृता नु।

स्त्रीरत्नसृष्टिरपरा प्रतिभाति सा मे धातुर्विभुत्वमनुचिन्त्य वपुश्च तस्याः॥ ७५॥

मध्यमस्य यथा—(विक्रमो. १.१०)

अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः श्रृङ्गारो नु रसः स्वयं नु मदनो मासो नु पुष्पाकरः।

वेदाभ्यासजडः कथं स विषयव्यावृत्तकौतूहलो निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः॥ ७६॥

८. उत्तमस्य शङ्का यथा—(मामा. ८.१४)

याता नु तद्‍भगवतीभवनं सखी नो जीवन्त्युपेष्यति तवेत्यभिशङ्कितोऽस्मि।

प्रायेण बान्धवसुहृत्प्रियसङ्गमादि सौदामनीस्फुरणचञ्चलमेव सौख्यम्॥ ७७॥

मध्यमस्य यथा—(मामा. ८.१३)

किमपि किमपि शङ्के मङ्गलेभ्यो यदन्यद् विरमतु परिहासश्चण्डि! पर्युत्सुकोऽस्मि।

Showing 301 to 310 of 565 verses