पच्छण्णपावसंक व्व सामली मज्झ हिअआओ॥ ६९॥
(क्षणमात्रमपि नापगच्छत्यनुदिवसमपि दत्तगुरुकंसतापा।
प्रच्छन्नपापशङ्केव श्यामलाङ्गी मम हृदयात्॥)
मध्यमस्य यथा—(मामा. ५.१०)
लीनेव प्रतिबिम्बितेव लिखितेवोत्कीर्णरूपेव च प्रत्युप्तेव च वज्रलेपघटितेवान्तर्निखातेव च।
सा नश्चेतसि कीलितेव विशिखैश्चेतोभुवः पञ्चभि— श्चिन्तासन्ततितन्तुजालनिबिडस्त्रस्तेव लग्ना प्रिया॥ ७०॥
१. चतुर्थश्चरणोऽस्माभिरुपकल्पितः।
५. उत्तमस्य मतिः यथा—(सूमु. ६)
मधु च विकसितोत्पलावतंसं शशिकरपल्लवितं च सौधपृष्ठम्।
मदनजनितविभ्रमा च कान्ता सुखमिदमर्थवतां; विभूतयोऽन्याः॥ ७१॥