भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 311 to 320 of 565 verses
कलयसि कलितोऽहं वल्लभे! देहि वाचं भ्रमति हृदयमन्तर्विह्वलं निर्दयाऽसि॥ ७८॥

९. उत्तमस्य निद्रा यथा—(रघु. ५.६४)

तत्र स्वयंवरसमाहृतराजलोकं कन्याललाम कमनीयमजस्य लिप्सोः।

भावावबोधकलुषा दयितेव रात्रौ निद्रा चिरेण नयनाभिमुखी बभूव॥ ७९॥

मध्यमस्य यथा—

ऊष्मायमाणस्तनमण्डलीभिर्वराङ्गनाभिः स्फुटविभ्रमाभिः।

आलिङ्गिता रात्रिषु शैशिरीषु ते शेरते यैः प्रणतो वृषाङ्कः॥ ८०॥

१०. उत्तमस्य सुप्‍तं यथा—(कुसं. ८.८४)

केवलं प्रियतमादयालुना ज्योतिषामवनातासु पङ्क्तिषु।

तेन तत्परिगृहीतवक्षसा नेत्रमीलनकुतूहलं कृतम्॥ ८१॥

Showing 311 to 320 of 565 verses