कनककलशस्वच्छे राधापयोधरमण्डले नवजलधरच्छायामात्मद्युतिं प्रतिबिम्बिताम्।
असितसिचयप्रान्तभ्रान्त्या मुहुर्मुहुरुत्क्षिपञ् जयति जनितव्रीडाहासः प्रियाहसितो हरिः॥ ८५॥
१. उत्तरार्धमिदमत्र योजितमस्माभिः।
जाओ सो वि विलक्खो मए वि हसिऊण गाढमुवऊढो।
पढमोसरिअस्स णिअंसणस्स गंठिं विमग्गंतो॥ ८६॥
(जातः सोऽपि विलक्षो मयाऽपि हसित्वा गाढमुपगूढः।
प्रथमापसृतस्य निवसनस्य ग्रन्थिं विमार्गयमाणः॥)
१३. उत्तमस्यावहित्थं यथा—(शाकु. २.१९)
क्व वयं? क्व परोक्षमन्मथो मृगशावैः सममेधितो जनः।