इन्दुः सीतावदनसदृशो, जानकीनेत्रहृद्यं लीलाम्भोजं, विसकिसलया मैथिलीहासभासः।
सम्यक् साम्यादिति हि बहवस्तस्य जाता जगत्यां लङ्काभर्तुर्जनकतनयाविप्रलम्भे विनोदाः॥ ८५॥
तं णत्थि जं सहिअणो ण भणेज्ज पेच्छक्ख मन्तु दूमिअहिअअं।
अणुणेजअ जप्पंतो जइ णवरं वम्महो मिअंकोंवविअंओ॥ ८६॥
(तन्नास्ति यत् सखी सखिजनो न भणेत् प्रेक्षस्व क्षमतां मन्तुदूनहृदयम्।
अनुनयेत् जल्पन् यदि केवलं मन्मथो मृगाङ्कोपेतः॥)
कनिष्ठस्य यथा—(सेब. ११.२७)
अब्भत्थणं ण गेण्हइ तीरइ तिहुअणसिरीअ वि ण लोहेउं।
ण गणेइ सरीरभअं कह मंतेण/मण्णे होज्ज जाणई साणुणआ॥ ८७॥