इत्यादि नन्विह निरर्थकमेव यस्मिन् कामश्च जृम्भितगुणो नवयौवनं च॥ ९०॥
कनिष्ठस्य यथा—(सेब. ११.२८)
पइ-माहप्प-णिसण्णा अवमण्णिअ-सेस-पुरिससोंडीरा।
जइ णवरं होज्ज वसे लुअराहवसीसदंसणे जणअसुआ॥ ९१॥
(पतिमाहात्म्यनिषण्णाऽवसानित(मानित)शेषपुरुषशौण्डीर्या।
यदि केवलं भवेद् वशे लूनराघवशीर्षदर्शने जनकसुता॥)
७. मध्यमस्य वितर्को यथा—(शाकु. ६.१०)
स्वप्नो नु माया नु मतिभ्रमो नु क्लिष्टं नु तावत् फलमेव पुण्यम्।
असन्निवृत्त्यै तदतीतमेते मनोरथा नाम तटप्रपातः॥ ९२॥
कनिष्ठस्य यथा—(किराता. १६.१८)