असकृदनवगीतं गीतमाकर्णयन्तः सुखमुकुलितनेत्रा यान्ति निद्रां नरेन्द्राः॥ ९६॥
व्रीहिः स्तम्बकरिः, प्रभूतपयसः प्रत्यागता धेनवः प्रत्युज्जीवितमिक्षुणा भृशमिति ध्यायन्नपेतान्यधीः।
सान्द्रोशीरकुटुम्बिनीस्तनभरव्यालुप्तघर्मक्लमो देवे नीरमुदारमुज्झति सुखं शेते निशि ग्रामणीः॥ ९७॥
१०. मध्यमस्य सुप्तं यथा—(उरा. १.२)
जृम्भाविजिह्मित/विजृम्भित-दृशः प्रथमप्रबुद्ध— लक्ष्मीकराम्बुरुहलालनलालसस्य ।
गात्राप्रवृत्ति/वर्तिभरसस्मित/खर्वित-शेषमव्या— दव्याहतं मुरजितः कृतकप्रसुप्तम्॥ ९८॥
कनिष्ठस्य यथा—(बारा. ८.२७)
निस्तन्द्रैर्दिग्द्विपेन्द्रैर्युगपदुपगते बोधनायाधिवक्षः प्रारब्धे द्वन्द्वयुद्धे प्रचुरमदचयोच्चण्डगण्डैश्चतुर्धा।
निद्रामुद्रां न मुञ्चत्यपि तु खुरुखुराघोषगर्भोरुघोणा— घूत्कारैर्घोरतारैः स्वपिति पिहितदृङ् निर्भरं कुम्भकर्णः॥ ९९॥