सोढा सोऽपि हि भार्गवो गुरुतनुर्निर्भर्त्सनां रावणा— दित्याकर्ण्य गणैर्वृतः स्मितमुखैरीशोऽपि लज्जिष्यते॥ १०२॥
कनिष्ठस्य यथा—(वेसं. १.२६)
भूयः परिभवक्षान्तिलज्जाबन्धुरिताननम्।
अनिश्शेषितकौरव्यं न पश्यसि वृकोरदरम्॥ १०३॥
१३. मध्यमस्य हर्षो (/ धृतिः) यथा—(बारा. ५.९)
न प्रीते परमेश्वरेऽपि शिरसां छेदेन होमेन वा ज्यावल्लीनहनेन चामरपतौ द्वारार्गलासङ्गिनि।
संप्रत्यैलबिलात्१ तथा नच हृते विश्वातिथौ पुष्पके द्रष्टव्या जनकात्मजेत्यथ यथा लङ्केश्वरो मोदते॥ १०४॥
कनिष्ठस्य यथा—(वेसं. २.१३)
दिष्ट्याऽर्धश्रुतविप्रलब्धवचनक्रोधादहं नो गतो दिष्ट्या नो परुषं रुषाऽर्धकथिते किञ्चिन्मया व्याहृतम्।
मां प्रत्याययितुं विमूढहृदयं दिष्ट्या कथाऽन्तं गता मिथ्यादूषितयाऽनया विरहितं दिष्ट्या न जातं जगत्॥ १०५॥