११. मध्यमस्य प्रबोधो यथा—(रघु. ९.७१)
उषसि स गजयूथकर्णतालैः पटुपटहध्वनिभिर्विधूतनिन्द्रः।
अरमत मधुरस्वराणि शृण्वन् विहगविकूजितवन्दिमङ्गलानि॥ १००॥
कनिष्ठस्य यथा—(सेब. १२.४०)
ताव अ रक्खसणाहो पाआरंतरिअ—कडइअं कइसेण्णं।
रणमहिअं अगणेंतो णिअए णिद्दापरिक्खअंमि विउद्धो॥ १०१॥
(तावच्च राक्षसनाथः प्राकारान्तरितकटकितं कपिसैन्यम्।
रणमहितमगणयन् निजके निद्रापरिक्षये विबुद्धः॥)
१२. मध्यमस्य व्रीडा यथा—(बारा. २.२८)
सेर्ष्यं पश्यति षण्मुखे भगवती कोदण्डशिक्षाश्लथं धम्मिल्लं विरचय्य चुम्बितवती यं वत्सला मूर्धनि।