सुहृद्वधूभिः कृपणास्समेतास्सुदुःखिता सन्ति हृताखिलार्थाः॥ १०९॥
१३. सर्वत्रैवावहित्थं यथा—(शाकु. २.१९)
क्व वयं? क्व परोक्षमन्मथो मृगशावैः सममेधितो जनः।
परिहासविजल्पितं सखे! परमार्थेन न गृह्यतां वचः॥ ११०॥
राजकन्यानुरक्तं मां रोमोद्भेदेन रक्षकाः।
अवगच्छेयुराः ज्ञातमहो! शीतानिलं वनम्॥ १११॥
१४. सम्भवाधिक्ये धृतिर्यथा—
॰ ॰ ॰ ॰ ॰ ॰ परीक्षकैरहं युतः।
दृष्टः साक्षाद् भगवान् देवी प्राप्ता प्रियं किमतः॥ ११२॥१