सम्भावनातिरिक्ते कार्ये संपादिते त्रपावनतः।
हर्षाश्रुपूरितदृशा धन्यः परिरभ्यते प्रभुणा॥ ११३॥
१५. परार्थसिद्धौ हर्षो यथा—
तत्रैव गमनादेशो (यत्र मे वर्तते प्रिया।
शीघ्रं तत्र गमिष्यामि ह्यनुकूलो गलग्रहः)॥ ११४॥२
रक्षोघ्नानि च मङ्गलानि सुदिने कल्प्यानि दारक्रिया वैदेह्याश्च रघूद्वहस्य कुशलैर्दीक्षाप्रवेशश्च नः।
आस्थाप्यानि च तानि तानि जगतां क्षेमाय रामात्मनो दैत्यारेश्चरिताद्भुतान्यथ खलु व्यग्राः प्रमोदामहे॥ ११५॥
१–२. नैषां गन्धोऽपि जोशेरे। कोष्ठकपूर्त्तिरस्मत्कृता।