मूर्च्छनापरिगृहीतकैशिकैः किन्नरैरुषसि गितमङ्गलः॥ १०६॥
उषसि स गजयूथकर्णतालैः पटुपटहध्वनिभिर्विधूतनिद्रः।
अरमत मधुरस्वराणि शृण्वन् विहगविकूजितवन्दिमङ्गलानि॥ १०७॥
१. जोशेरेऽस्य गन्धोऽपि नास्ति। अश्वत्थाम्न इवेयमाशङ्का।
१२. स्वश्लाघादिषु व्रीडा; यथा—(मवीच. ४.२०)
वीरश्रिया च विनयेन च रोचमानो मान्योऽमुना वचनतश्च गुणोन्नतश्च।
लज्जां वहन् भृगुपतौ हतधीरदर्पे शिष्यो गुराविव कृतप्रथमापराधः॥ १०८॥
ते सर्वथा वज्रमया मनुष्याः संग्रामयज्ञे हृतभर्तृकाभिः।