अत्रानुगोदं मृगयानिवृत्तस्तरङ्गवातेन विनीतखेदः।
रहस्त्वदुत्सङ्गनिषण्णमूर्धा स्मरामि वानीरगृहेषु सुप्तिम्॥ १०३॥
१०. निशीथे स्वापो यथा—(कुसं. ८.८४)
केवलं प्रियतमादयालुना ज्योतिषामवनतासु पङ्क्तिषु।
तेन तत्परिगृहीतवक्षसा नेत्रमीलनकुतूहलं कृतम्॥ १०४॥
तत्र स्वयंवरसमाहृतराजलोकं कन्याललाम कमनीयमजस्य लिप्सोः।
भावावबोधकलुषा दयितेव रात्रौ निद्रा चिरेण नयनाभिमुखी बभूव॥ १०५॥
११. अपररात्रे प्रबोधो यथा—(कुसं. ८.८५)
स व्यबुध्यत बुधस्तवोचितः शातकुम्भकमलाकरैः समम्।