भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 341 to 350 of 543 verses
निषादपतिना यत्र स्‍निग्धेनासीत् समागमः॥ ९६॥

यथा वा—

कटु क्षिपन्तो वयमत्र दृष्टास्तातेन पृष्ठे निहितः करो मे।

अस्मिंस्त्वकस्मादपि तोषितेन विचुम्बितस्त्वं बहुशः कपोले॥ ९७॥

७. तत्त्वानुपाती वितर्को यथा—(किराता. १६.१९)

पुंसः पदं मध्यममुत्तमस्य द्विधैव कुर्वन् धनुषः प्रणादैः।

नूनं तथा नैष यथाऽस्य वेषः प्रच्छन्नमप्यूहयते हि चेष्टा॥ ९८॥

यथा वा—(किराता. १३.६)

न मृगः खलु कोऽप्ययं जिघांसुः स्खलति ह्यत्र तथा भृशं मनो मे।

विमलं कलुषीभवच्‍च चेतः कथयत्येव हितैषिणं रिपुं वा॥ ९९॥

Showing 341 to 350 of 543 verses