३. उत्तमेषूत्कण्ठा; यथा—(उराच. ६.२१)
अमृताध्मातजीमूतस्निग्धसंहननस्य ते।
परीरम्भाय वात्सल्यादयमुत्कण्ठते जनः॥ ९०॥
एषा मनो मे प्रसभं शरीरात् पितुः पदं मध्यममुत्पतन्ती।
सुराङ्गना कर्षति खण्डिताग्रात् सूत्रं मृणालादिव राजहंसी॥ ९१॥
४. धर्मार्थकामेषु चिन्ता; यथा—(शाकु. ३.२)
जाने तपसो वीर्यं सा बाला परवतीति मे विदितम्।
अलमस्मि ततो हृदयं तथाऽपि नेदं निवर्तयितुम्॥ ९२॥