विशेषविदुषः शास्त्रं यत् तवोद्ग्राह्यते पुरः।
हेतुः परिचयस्थैर्ये वक्तुर्गुणनिकैव सा॥ ८४॥
१. न स्पृहा जोशेरः, मे स्पृहा राघवः। 'मे—'पाठे 'खद्योतैर्ना ॰' इति वृथाबहुवचनः पाठः परिकल्प्यः' निषेधस्य विवक्षितत्वात्।
सोऽयमस्य विशेषगुणयोगः स्वाभाविको निरतिशयः आन्तरो नित्यश्चालङ्कारः यत्प्रभावादस्य अनुकूलेषु रतिः, अनवगीतेषु प्रीतिः, उत्तमेषूत्कण्ठा, धर्मार्थकामेषु चिन्ता, उत्तरपक्षे मतिः, अव्याहतक्रमा स्मृतिः, तत्त्वानुवादी/पाती वितर्कः, फलानुसारिणी शङ्का, विविक्तेषु निद्रा, निशीथे स्वापः, अपररात्रे प्रबोधः, स्वश्लाघादिषु व्रीडा, सर्वत्रैवावहित्थम्, संभवाधिक्ये धृतिः, परार्थसिद्धौ हर्षः, परापदाने रोमाञ्चः, स्मितमात्रकारी हासः, महारम्भेषूत्साहः, त्रतातिशयादिषु न ग्लानिः, स्वशक्तिधर्षणेषु क्रोधः, महादुःखेषु शोकः, दुःखाद्यतिशययोगे अश्रूद्गमः, प्रारम्भातिरेके स्वेदः, आयासातिशययोगे श्रमः, प्रहारातियोगे मूर्च्छा इति। न चैतेऽस्योत्पन्ना अविज्ञायन्ते। नचायमेतैरभिभूयते, गम्भीराशयतया महासत्त्वतया च। यथोच्यते—
वज्रादपि कठेराणि मृदूनि कुसुमादपि।
लोकोत्तराणां चेतांसि को हि विज्ञातुमर्हति ?॥ ८५॥
१. अनुकूलेषु रतिर्यथा— (शाकु. २.१)
कामं प्रिया न सुलभा मनस्तु तद्भावदर्शनायासि।