अकृतार्थेऽपि मनसिजे रतिमुभयप्रार्थना कुरुते॥ ८६॥
आदर्शनात् प्रविष्टा सा मे सुरलोकसुन्दरी हृदयम्।
बाणेन मकरकेतोः कृतमार्गमवन्ध्यपातेन॥ ८७॥
२. अनवगीतेषु प्रीतिः; यथा—(मवीच. १.२१)
उत्पत्तिर्देवयजनाद् ब्रह्मवादी नृपः पिता।
सुप्रसन्नोज्ज्वला मूर्तिरस्याः स्नेहं करोति मे॥ ८८॥
अथ कोऽयमिन्द्रमणिमेचकच्छविर्ध्वनिनैव बद्धपुलकं करोति माम्।
नव-नील-नीरधर-धीरगर्जित-क्षणबद्ध-कुड्मल-कदम्ब-डम्बरम्॥ ८९॥