भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 321 to 330 of 524 verses
४. किञ्चिदुच्छ्वासाद् भ्रुवोर्मधुरायतता चतुरं (नाशा. ८.१२२) यथा—

स्तिमितविकसितानामुल्लसद्‍भ्रूलतानां मसृणमुकुलितानां प्रान्तविस्तारभाजाम्।

प्रतिनयननिपाते किञ्चिदाकुञ्चितानां विविधमहमभूवं पात्रमालोकितानाम्॥ ९५॥

५. एकस्या उभयोर्वाऽपि मृदुभङ्गे निकुञ्चितं (नाशा. ८.१२३) यथा—

मानयोग्यां करोमीति प्रियस्थाने स्थितां सखीम्।

बाला भ्रूभङ्गजिह्याक्षी पश्‍यति स्फुरिताधरा॥ ९६॥

६. एकस्या एव ललितादुत्क्षेपादेरुद्रेचितं भ्रुवः। (नाशा.८.१२३)यथा—(शाकु. ३.१२)

उन्नमितैकभ्रूलतमाननमस्याः पदानि रचयन्त्याः।

कण्टकितेन प्रथयति मय्यनुरागं कपोलेन॥ ९७॥

७. स्वाभाविकं सहजं (नाशा. ८.१२४) यथा—

Showing 321 to 330 of 524 verses